2026-02-24 05:23:00 by ambuda-bot
This page has not been fully proofread.
वाक्यवृत्तिः ।
२७
सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् ।
चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूत विकारत्वाच्च कुम्भवत् ॥ १३ ॥
अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।
करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४॥
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
tear तथा देहो नाहमित्यवधारय ॥ १५ ।
एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु ।
मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६॥
संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥
देहेन्द्रियादयो भावा. हानादिव्यापृतिक्षमाः ।
यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥
अनापन्नविकारः सन्नयस्कान्तवदेव यः ।
बुद्धयादींश्चालयेत्प्रत्यक्सोऽहमित्यवधारय ॥ १९ ॥