This page has not been fully proofread.

अपरोक्षानुभूतिः
 
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२ ॥
 
एभिरङ्गैः समायुक्तो राजयोग उदाहृतः ।
किंचित्पक्ककषायाणां हठयोगेन संयुतः ॥ १४३ ॥
 
परिपक्कं मनो येषां केवलोऽयं च सिद्धिदः ।
गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥ १४४ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
अपरोक्षानुभूतिः समाप्ता ॥
 
२१
 
I