2026-02-24 05:22:57 by ambuda-bot
This page has not been fully proofread.
अपरोक्षानुभूतिः ।
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते ।
अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे व विश्वता ॥ ९४ ॥
यथा रज्जुं परित्यज्य सर्प गृह्णाति वै भ्रमात् ।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥
रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति ।
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत् ॥ ९६ ॥
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः ।
अज्ञानिजनबोधार्थ प्रारब्धं वक्ति वै श्रुतिः ॥ ९७ ॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
१५
बहुत्वं तन्निषेधार्थं
श्रुत्या गीतं च
वै
स्फुटम् ॥ ९८ ॥
उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः ।
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९ ॥
त्रिपञ्चाङ्गान्यथो वक्ष्ये पूर्वोक्तस्यैव सिद्धये ।
तैश्च सर्वैः सदा कार्य निदिध्यासनमेव तु ॥ १०० ॥
नित्याभ्यासाते प्राप्तिर्न भवेत्सश्चिदात्मनः ।
तस्माद्ब्रह्म निदिध्यासे जिज्ञासुः श्रेयसे चिरम् ॥ १०१ ॥