This page has not been fully proofread.

१२
 
अपरोक्षानुभूतिः ।
 
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ।
 
विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७०
 
घटत्वेन यथा पृथ्वी पदत्वेनैव तन्तवः ।
विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७१ ॥
 
कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् ।
विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७२ ॥
 
पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका ।
 
विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७३ ॥
 
गृहवेनैव काष्ठानि खङ्गत्वेनैव लोहता ।
विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७४ ॥
 
यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
त्वं पश्यत्यज्ञानयोगतः ॥ ६५ ॥
 
तद्वदात्मनि
 
पोतेन गच्छतः पुंसः सर्व भातीव चञ्चलम् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७६ ॥
 
पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७७ ॥