This page has not been fully proofread.

अपरोक्षानुभूतिः ।
 
यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा ।
 
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२ ॥
 
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।
 
पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता ॥ ६३॥
 
घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४ ॥
 
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५ ॥
 
कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
 
तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह ॥ ६६ ॥
 
गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् ।
वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मवाभाति भासुरम् ॥ ६७ ॥
 
सदैवात्मा विशुद्धोऽपि शुद्धो भाति वै सदा ।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ॥ ६८ ॥
 
यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः ।
आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः ॥ ६९ ॥
 
११