This page has not been fully proofread.

१०
 
अपरोक्षानुभूतिः ।
 
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
 
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥
 
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
 
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५ ॥
 
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥
 
स्वप्न जागरणेऽलीक: स्वप्नेऽपि न हि जागरः ।
द्वयमेव लये नास्ति लयोऽपि भयोर्न च ॥ ५७ ॥
 
वयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
 
अस्य द्रष्टा गुणातीतो नित्यो ह्येकचिदात्मकः ॥ ५८ ॥
 
यद्वन्मृदि घटभ्रान्ति शुक्तौ वा रजतस्थितिम् ।
तद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः ॥ ५९ ॥
 
यथा मृदि घटो नाम कनके कुण्डलाभिधा ।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६० ॥
 
यथैव व्योनि नीलत्वं यथा नीरं मरुस्थले ।
 
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥