2026-02-24 05:22:56 by ambuda-bot
This page has not been fully proofread.
अपरोक्षानुभूतिः ।
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६ ॥
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ।
इह पश्यति नानात्वं मायया वश्वितो नरः ॥ ४८ ॥
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समप्राणि विभर्तीति श्रुतिर्जगौ ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१ ॥
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।
योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥
यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति ।
आत्मत्वेन यदा सर्वे नेतरस्तत्र चाण्वपि ॥ ५३॥