2026-02-24 05:33:14 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
२५७
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥
यावद्यावच्च सद्बुद्धे स्वयं संत्यज्यतेऽखिलम् ।
तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९ ॥
यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ १००० ॥
यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ।
असंकल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥
सर्व सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥
ज्ञातज्ञेयः संप्रणम्य सद्रुरोश्चरणाम्बुजम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥
गुरुरेष सदानन्द सिन्धौ निर्मग्नमानसः ।
पावयन्वसुधां सर्वा विचचार निरुत्तरः ॥ १००४ ॥
S. P. II. 17