2026-02-24 05:22:55 by ambuda-bot
This page has not been fully proofread.
अपरोक्षानुभूतिः ।
अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४ ॥
एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
अहमेकोsपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।
तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥ १६ ॥
आत्मा विनिष्कलो को देहो बहुभिरावृतः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९ ॥
आत्मा प्रकाशक : स्वच्छो देहस्तामस उच्यते ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥