2026-02-24 05:33:15 by ambuda-bot
This page has not been fully proofread.
२५६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥
नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् ।
विश्वश्व तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥
विराट् हिरण्यगर्भश्च ईश्वरश्चेति च ते त्रयम् ।
ब्रह्माण्डं चैव पिण्डाण्डं लोका
भूरादयः क्रमात् ॥
स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।
तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किंचन ॥ ९९२ ॥
कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ।
किंचिद्भेदं न तस्यास्ति किंचिद्वापि न विद्यते ॥
जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति ।
इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥
इति निश्चयशून्यो यो विदेहो मुक्त एव सः ।
ब्रह्मैव विद्यते साक्षद्वस्तुतोऽवस्तुतोऽपि च ॥
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् ।
शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥