2026-02-24 05:33:12 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः !
२५३
यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः ।
केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५ ॥
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।
अन्त: पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥
यथास्थितमिदं सर्व व्यवहारवतोऽपि च ।
अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥
नोदेति नास्तमायाति सुखदुःखे मनः प्रभा ।
यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥
यो जागर्त्ति सुषुप्तिस्थो यस्य जान्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतोऽकुर्वतो वापिस जीवन्मुक्त उच्यते ॥ ९७१ ॥
यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥