This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२५१
 
इदं ममेति सर्वेषु दृश्यभावेष्वभावना ।
 
जाप्रज्जादिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥
 
विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् ।
नामरूपपरित्यागो जाग्रत्स्वप्रः समीर्यते ॥ ९५० ॥
 
परिपूर्णचिदाकाशे मयि बोधात्मतां विना ।
 
न किंचिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥
 
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः ।
 
बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजादितीर्यते ॥ ९५२ ॥
 
कारणाज्ञाननाशाद्य द्द्रष्टृदर्शनदृश्यता ।
 
न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥
 
अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला ।
 
विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४ ॥
 
चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः ।
 
आनन्दानुभवो विद्वन् सुप्तिजादितीर्यते ॥ ९५५ ॥
 
वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ ।
 
समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥