2026-02-24 05:33:10 by ambuda-bot
This page has not been fully proofread.
२४८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
मुक्तसङ्गाय शान्ताय त्यक्ताहंताय ते नमः ।
दधाने नमो भूने महिम्नः पारमस्य ते ।
नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७ ॥
किं करोमि क गच्छामि किं गृह्णामि त्यजामि किम् ।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥
नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् ।
पूर्णोऽनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
आनन्दघन एवाहमसङ्गोऽहं सदाशिव: ॥ ९३१ ॥
त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजः श्रमः ।
प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥
छायया स्पृष्टमुष्णं वा शीतं वा दुष्टु सुष्ठु वा ।
न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥