2026-02-24 05:33:09 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
२४७
वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः ।
समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥९२१॥
अनुसंधानराहित्यमालस्यं भोगलालसम् ।
भयं तमश्च विक्षेपस्तेजस्पन्दश्च शून्यता ॥ ९२२ ॥
एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः ।
विनानेतान्परित्यक्त्वा प्रमादरहितो वशी ।
समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३ ॥
इति गुरुवचनाच्छ्रुतिप्रमाणा-
त्परमवगम्य स्वतत्त्वमात्मयुक्त्या ।
प्रशमितकरणः समाहितात्मा कचि -
दचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४ ॥
बहुकालं समाधाय स्वस्वरूपे तु मानसम् ।
उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५ ॥
प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह ।
नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६ ॥