This page has not been fully proofread.

अपरोक्षानुभूतिः ।
 
सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥
 
विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
 
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७ ॥
 
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
 
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥
 
संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे ।
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९ ॥
 
उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
 
कर्तव्यो ज्ञानसिद्धयर्थमात्मनः शुभमिच्छता ॥ १० ॥
 
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।
यथा पदार्थभानं हि प्रकाशेन विना कचित् ॥ ११ ॥
 
aist कथमिदं जातं को वा कर्तास्य विद्यते ।
उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥
 
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
 
एतद्विलक्षणः कश्विद्विचारः सोऽयमीदृशः ॥ १३॥