2026-02-24 05:33:09 by ambuda-bot
This page has not been fully proofread.
२४६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ।
सुखेनैव भवेद्यस्मिन्नजत्रं ब्रह्मचिन्तनम् ॥ ९९३ ॥
आसनं तद्विजानीयादितरत्सुखनाशनम् ।
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९९४ ॥
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।
ततस्तद्वृत्तिनैश्वल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥
अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ।
विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ ९९७ ॥
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९९८ ॥
मनसो धारणं चैव धारणा सा परा मता ।
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥
ध्यानशब्देन विख्याता परमानन्ददायिनी ।
निर्विकारतया
वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥