2026-02-24 05:33:08 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः । २४५
समाधिना नश्यति कर्मबन्धो
ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ॥
एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः ।
शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥
तस्मात्त्वं चाप्यप्रमत्तः समाधी-
कृत्वा ग्रन्धि साधु निर्दद्य युक्तः ।
नित्यं ब्रह्मानन्दपीयूषसिन्धौ
मज्जन्त्रीडन्मोदमानो रमस्व ॥ ९०८ ॥
निर्विकल्पसमाधियों वृत्तिनैश्चल्यलक्षणा ।
तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ॥
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९९० ॥
ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।
सर्व ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ॥