2026-02-24 05:33:07 by ambuda-bot
This page has not been fully proofread.
२४२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
न देहो न चाक्षाणि न प्राणवायु-
मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥
न देशो न कालो न दिग्वापि सत्स्या-
न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
एतद्दृश्यं नामरूपात्मकं यो-
ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं
कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥
अध्यस्त नामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
न देहो न चाक्षाणि न प्राणवायु-
मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥
न देशो न कालो न दिग्वापि सत्स्या-
न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
एतद्दृश्यं नामरूपात्मकं यो-
ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं
कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥
अध्यस्त नामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥