This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः :.1
 
२४१
 
स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।
 
सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥
 
नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन ।
अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।
यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥
 
इयं भूर्न सन्नापि तोयं न तेजो
 
न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
 
सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥
 
न शब्दो न रूपं न च स्पर्शको वा
 
तथा नो रसो नापि गन्धो न चान्यः ।
 
यदेषामधिष्ठानभूतं विशुद्धं
 
सदेकं परं सत्तदेवाहमस्मि ॥। ८८७ ॥
 
न सद्द्रव्यजातं गुणा न क्रिया वा
 
न जातिर्विशेषो न चान्यः कदापि ।
 
S. P. II. 16