2026-02-24 05:33:05 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः । २३९
एवं सन्मावगाहिन्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥
कामादिदृश्यप्रविलापपूर्वकं
शुद्धोऽहमित्यादिकशब्दमिश्रः ।
दृश्येव निष्ठस्य य एष भावः
शब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥
दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥। ८७३ ॥
सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।
संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥। ८७४ ॥
निर्विकल्पक समाधिनिष्ठया
तिष्ठतो भवति नित्यता ध्रुवम् ।
उद्भवाद्यपगतिर्निरर्गला
नित्यनिश्चलनिरन्तनिर्वृतिः ॥ ८७५ ॥
विद्वानहमिदमिति वा किंचि-
द्वाह्याभ्यन्तरवेदनशून्यः ।