2026-02-24 05:33:05 by ambuda-bot
This page has not been fully proofread.
२३८
सर्ववेदान्तसिद्धान्तमारसंग्रहः ।
योगं समारोहति यो मुमुक्षुः
क्रियान्तरं तस्य न युक्तमीषत् ।
क्रियान्तरासक्तमनाः पतत्यसौ
तालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४ ॥
योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।
aria frag: का कथा तत्र कर्मणाम ।
दृश्यानुविद्धः कथितः समाधिः सविकल्पकः । ८६५ ॥
शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥८६६॥
आयोऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।
निगमवचोवेद्योऽहमनवद्याखण्ड बोधरूपोऽहम ॥ ८६७ ॥
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम ।
केवलहगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८॥
अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥८६९ ॥
प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम ।
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥