2026-02-24 05:33:04 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः । २३७
ज्ञानैकनिष्ठानिरतस्य भिक्षो-
नैवावकाशोऽस्ति हि कर्मतन्त्रे ।
तदेव कर्मास्य तदेव संध्या
तदेव सर्व न ततोऽन्यदस्ति ॥ ८५७ ॥
बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः ।
तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥
स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते ।
करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥
विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः ।
सा संध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥
विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् ।
यतीनां किमनुष्ठानं स्वानुसंधिं विनापरम् ॥ ८६१ ॥
तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः ।
सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२ ॥
कर्तव्यं स्वोचितं कर्म योगमारोदुमिच्छता ।
आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥