This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२३५
 
विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते ।
 
सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥। ८४४ ॥
 
न वेषभाषाभिरमुष्य मुक्तिर्या
केवलखण्डचिदात्मना स्थितिः ।
 
तत्सिद्धये स्वात्मनि सर्वदा स्थितो
 
जह्यादहंतां ममतामुपाधौ ॥। ८४५ ॥
 
स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् ।
 
तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥
 
ज्ञात्वा देवं सर्वपाशापहानि:
 
क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः ।
 
इत्येवैषा वैदिकी वाब्रवीति
 
शत्यां जन्ममृत्युप्रहानिम् ॥। ८४७ ॥
 
भूयो जन्माद्यप्रसक्तिर्विमुक्ति:
 
शत्यां भाति जन्माद्यभावः ।
 
शत्या हेतुरात्मैकनिष्ठा
 
तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥