This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२३१
 
सद्भिः : स एव विज्ञेयः समाधिः सविकल्पकः ।
मृद एवावमानेऽपि मृण्मयद्विपभानवत् ॥ ८२१ ॥
 
सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी ।
समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥
 
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्हढा ।
 
मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३ ॥
 
जले निक्षिप्लवणं जलमात्रतया स्थितम् ।
 
पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥
 
यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता ।
 
पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५ ॥
 
ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥
 
समाधि सुप्तयोर्ज्ञानं चाज्ञानं सुप्तयात्र नेष्यते ।
सविकल्पो निर्विकल्पः समाधिर्द्वाविमौ हृदि ॥ ८२७ ॥
 
मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये ।
 
कृते ऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८ ॥