This page has not been fully proofread.

२३०
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् ।
 
सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥
 
तैलधारावच्छिन्नवृत्त्या तयानमिष्यते ।
 
तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥
 
प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते ।
 
प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥
 
आत्मयाथार्थ्यांनिश्चित्त्यै कर्तव्यं मननं मुहुः ।
विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।
 
तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥
 
यावन्न तर्केण निरासितोऽपि
 
दृश्य प्रपञ्चस्त्वपरोक्षबोधात् ।
 
विलीयते तावदमुष्य भिक्षो-
 
यनादि सम्यक्करणीयमेव ॥ ८१८ ॥
 
सविकल्पो निर्विकल्प इति द्वेधा निगद्यते ।
 
समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥
 
ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
 
तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२० ॥