2026-02-24 05:33:01 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
२२९
घटं विस्फुरयत्येष चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् ।
न फलव्याप्यता तेन न विरोधः परस्परम् ॥। ८०७ ॥
श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्धधैव सूक्ष्मया ।
प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥
स्यादखण्डाकारवृत्तिर्विना तु मननादिना ।
श्रवणान्मननाद्धधानात्तात्पर्येण निरन्तरम् ॥ ८०९ ॥
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।
मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥
श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये ।
सर्ववेदान्तवाक्यानां षभिर्लिङ्गैः सदद्वये ॥ ८११ ॥
परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः ।
श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥
वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् ।
मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम ॥ ८१३ ॥ .