This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२२५
 
आनन्दसगुनमनामयमद्वितीयं
 
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥
 
शरीरतद्योगतदीयधर्मा-
 
यारोपणं भ्रान्तिवशात्त्वयीदम् ।
 
न वस्तुतः किंचिदतस्त्वजस्त्वं
 
मृत्योर्भयं क्वास्ति तवासि पूर्ण: ॥ ७८१ ॥
 
यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्टया
 
तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।
 
त्वत्तो नान्यद्वस्तु किंचित्तु लोके
 
कस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥
 
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् ।
 
भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥
 
तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् ।
 
निष्कलं निष्क्रियं शान्तं ब्रह्मवासि सदाद्वयम् ॥ ७८४ ॥
 
ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।
 
ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥