This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः । २२३
 
यद्विदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥
 
न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।
न चैषां संघातस्त्वम् भवति विद्वन् शृणु परं
यदेतेषां साक्षी स्फुरणममलं तत्त्वमसिं हि ॥७७३॥
 
यज्जायते वस्तु तदेव वर्धते
 
तदेव मृत्युं समुपैति काले ।
 
जन्मैव तेनास्ति तथैव मृत्यु-
 
र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥
 
य एष देहो जनितः स एव
 
समेधते नश्यति कर्मयोगात् ।
 
त्वमेतदीयास्वखिलास्वववस्था-
 
स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥
 
यत्स्वप्रकाशमखिलात्मकमासुषुप्ते-
 
रेकात्मनाहमहमित्यवभाति नित्यम् ।