This page has not been fully proofread.

२२२
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
अविद्याकार्यस्तुल्यौ द्वावपि स्वप्नजागरौ ।
दृष्टदर्शनदृश्यादिकल्पनोभयतः समा । ७६६ ॥
 
अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते ।
 
न कचिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
 
भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः ।
कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
 
यत्र नान्यत्पश्यतीति श्रुतिद्वैतं निषेधति ।
 
कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
 
यतस्ततो ब्रह्म सदाद्वितीयं
 
विकल्पशून्यं निरुपाधि निर्मलम् ।
 
निरन्तरानन्दघनं निरीहं
 
निरास्पदं केवलमेकमेव ॥ ७७० ॥
 
नैवास्ति काचन भिदा न गुणप्रतीति-
 
न वाक्प्रवृत्तिरपि वा न मनः प्रवृत्तिः ।
 
यत्केवलं परमशान्तमनन्तमाद्य-
 
मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥