2026-02-24 05:32:56 by ambuda-bot
This page has not been fully proofread.
२१८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
वायार्थ तु सर्वस्य त्यागे न फलमीक्ष्यते ।
नालिकेर फलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥
गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् ।
तत्पदं त्वंपदं वापि त्यक्त्वा स्वार्थ यथाखिलम् ॥ ७४० ॥
तदर्थं वा त्वमर्थं वा यदि लक्ष्यति स्वयम् ।
तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ॥
न शङ्कनीयमित्यायैर्ज्ञातार्थे न हि लक्षणा ।
तत्पदं त्वंपदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥
तदर्थे च कथं तत्र संप्रवर्तेत लक्षणा ।
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥
अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।
गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥
अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः ।
लक्ष्यादिलक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥
वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके ।
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥