This page has not been fully proofread.

२१४
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥
 
arre daura विद्यते यत्पदत्रयम ।
 
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥
 
शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा ।
वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः । ७०९ ॥
 
समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् ।
वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥
 
चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम ।
सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११ ॥
 
जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् ।
 
सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥
 
अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते ।
नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ॥ ७१३ ॥
 
तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसंगतिः ।
पटाद्वावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥