2026-02-24 05:32:54 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
२१३
शिष्य :-
स्यात्तत्त्वंपदयोः स्वामिन्नर्थः कतिविधो मतः ।
पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥
वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते ।
लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥
एकत्वकथने का वा लक्षणात्रोररीकृता ।
एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥
श्रीगुरुः-
शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः ।
वाक्यार्थ श्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥
यावन्न तत्त्वंपदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४ ॥
अवस्था सच्चिदानन्दाखण्डेकर सरूपिणी ।
मोक्षः सिध्यति वाक्यार्था परोक्षज्ञानतः सताम् ॥ ७०५ ॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥