This page has not been fully proofread.

२१२
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
ब्रह्मैक्यतामेति पृथङ् न भाति
 
ततः सजातीयकृतो न भेदः ॥ ६९३ ॥
 
arra area महाकाशो यथा तथा ।
 
उपाध्यभावे त्वात्मैप स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥
 
पूर्ण एव सदाकाशी घटे सत्यप्यसत्यपि ।
 
नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥
 
अच्छिन्नरिछन्नवद्भाति पामराणां घटादिना ।
 
ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६ ॥
 
तथैव परमं ब्रह्म महतां च महत्तमम् ।
 
परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥
 
तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तव: ।
 
अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥
 
ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये
 
प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते ।
 
तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥