This page has not been fully proofread.

२१०
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
तस्माद्धि कार्य न कदापि भिन्नं
 
स्वकारणादस्ति यतस्ततोऽङ्ग ।
यद्भौतिकं सर्वमिदं तथैव
 
तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥
 
तच्चापि पञ्चीकृतभूतजातं
 
शब्दादिभिः स्वस्वगुणैश्च सार्धम् ।
 
वपूंषि सूक्ष्माणि च सर्वमेत-
 
द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७ ॥
 
तदप्यपञ्चीकृतभूतजातं
रजस्तमः सत्त्वगुणैश्च सार्धम् ।
 
अव्यक्तमात्रं भवति स्वरूपतः
 
साभासमव्यक्तमिदं स्वयं च ॥ ६८८ ॥
 
आधारभूतं यदखण्डमाद्यं
 
शुद्धं परं ब्रह्म सदैकरूपम् ।
 
सन्मात्रमेवास्त्यथ नो विकल्पः
 
सतः परं केवलमेवं वस्तु ॥ ६८९ ॥