2026-02-24 05:32:52 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः । २०७
आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः ।
धन्यैर्महात्मभिर्धीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६. ॥
अपरोक्षतयैवात्मा समाधावनुभूयते ।
केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥
स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः ।
उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥ ६६८ ॥
आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः ।
स गुडस्यैव नो तेषां माधुर्य विद्यते कचित् ॥ ६६९ ॥
तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते ।
बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७० ॥
यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते ।
आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥
यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः ।
तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥
सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः ।
निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ।