2026-02-24 05:32:52 by ambuda-bot
This page has not been fully proofread.
२०६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
अविद्याकार्यकरणसंघातेषु पुरोदितः ।
आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥
स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः ।
लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९ ।
न ह्यत्र विषयः कश्चिन्नापि बुद्धयादि किंचन ।
आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥
प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः ।
सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥
त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः ।
सुषुप्तादुत्थितवता सुखमस्वाप्सामित्यनु ॥ ६६२ ॥
दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना ।
अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥
दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते ।
सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥
सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ।
सद्धनोऽयं चिद्धनोऽयमानन्दघन इत्यपि ॥ ६६५ ॥