2026-02-24 05:32:50 by ambuda-bot
This page has not been fully proofread.
२०२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् ।
आत्मार्थमेव नान्यार्थ नातः प्रियतमः परः ॥ ६३० ॥
शिष्य :-
तस्मादात्मा केवलानन्दरूपो
यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः ।
यो वा अस्मान्मन्यतेऽन्यं प्रियं यं
सोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१ ॥
अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो ।
अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥
आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता ।
आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥
आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् ।
एष मे संशयः स्वामिन् कृपयैव निरखताम् ॥ ६३४ ॥
श्रीगुरुः-
आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः ।
बहिः सुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥