2026-02-24 05:32:49 by ambuda-bot
This page has not been fully proofread.
१९८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
यत्रात्मनोऽकामयितृत्वबुद्धि:
स्वप्नानपेक्षापि च तत्सुषुप्तम् ।
इत्यात्मसद्भाव उदीर्यतेऽत्र
श्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७ ॥
अकामयितृता स्वनादर्शनं घटते कथम् ।
अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥
एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः ।
आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९ ॥
सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः ।
कालत्रयेऽप्यबाध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥
शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः ।
अखण्डसुखरूपत्वादानन्दत्वमितीयते ॥ ६११ ॥
अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु ।
अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२ ॥
सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते ।
कदापि नासमित्यस्मादात्मनो नित्यता मता ॥ ६१३ ॥