Proofing

This page has not been fully proofread.

१८२
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
जन्माप्ययक्षुद्भयतृछ्रमादी-
 
ariyar मन तस्य धर्मान ॥ ४९४ ॥
 
विक्षेपशक्त्या परिचोद्यमानः
 
करोति कर्माण्युभयात्मकानि ।
 
भुञ्जान एतत्फलमप्युपात्तं
 
परिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥
 
अध्यासदोषात्समुपागतोऽयं
 
संसारबन्धः प्रबलप्रतीचः ।
 
योगतः क्लिश्यति गर्भवास-
 
जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६ ॥
 
अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः ।
स्वाभाविक भ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७ ॥
 
सर्वानर्थस्य तद्वीजं योऽन्यथाग्रह आत्मन: ।
 
ततः संसारसंपातः संततक्लेशलक्षणः ॥ ४९८ ॥
 
अभ्यासादेव संसारो नष्टेऽध्यासे न दृश्यते ।
तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥