Proofing

This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
१८१
 
शक्त्या यया संवृतबोधदृष्टि-
 
रात्मानमात्मस्थमिमं न वेद ॥ ४९० ॥
 
विक्षेपनाम्नी रजसस्तु शक्ति:
 
प्रवृत्तिहेतुः पुरुषस्य नित्यम् ।
 
स्थूलादिलिङ्गान्तमशेषमेत-
 
द्या सदात्मन्यसदेव सूयते ॥ ४९१ ॥
 
निद्रा यथा पुरुषमप्रमत्तं
 
समावृणोतीयमपि प्रतीचम् ।
तथावृणोत्यावृतिशक्तिरन्त-
 
विक्षेपशक्ति परिजृम्भयन्ती ॥ ४९२ ॥
 
शक्त्या महत्यावरणाभिधानया
 
समावृते सत्यमलस्वरूपे ।
 
पुमाननात्मन्यहमेष एवे-
 
त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३ ॥
 
यथा प्रसुप्तिप्रतिभासदेहे
 
स्वात्मत्वधीरेष तथा ह्यनात्मनः ।