2026-02-24 05:23:32 by ambuda-bot
This page has not been fully proofread.
१८०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
मूढानां प्रतिबिम्बाद बालानामिव दृश्यते ।
सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥
अनात्मन्यमित्येव योऽयमध्यास ईरितः ।
स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥
सुप्तिमूत्थितेष्वेव दृष्टः संसारलक्षणः ।
अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥
अध्यासबाधागमनस्य कारणं
प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्तमनर्थजातं
जन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥
आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसारं आत्मनः ॥ ४८८ ॥
आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥
विवेकवानप्यतियौक्तिकोऽपि
श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।