2026-03-06 06:18:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१०६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
</ignore>
<verse>ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥
</verse>
<verse>नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्ति:तिः ॥ २३ ॥
</verse>
<verse>काकस्य विष्ठावदसह्यबुद्धि-
भ
र्भोग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहु-
भ
र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥
</verse>
<verse>प्रदृश्यते वस्तुनि यत्र दोषो
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्तर्महारोगवतीं विजान-
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
</verse>
<verse>अत्रापि चान्यत्र च विद्यमान-
पदार्थसंमर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्शनं
संदर्शयत्येव तदीयदोषम् ॥ २६ ॥
</verse>
</page>
<ignore>१०६
<verse>ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥
<verse>नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्
<verse>काकस्य विष्ठावदसह्यबुद्धि-
भ
र्भोग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहु-
भ
र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥
<verse>प्रदृश्यते वस्तुनि यत्र दोषो
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्तर्महारोगवतीं विजान-
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
<verse>अत्रापि चान्यत्र च विद्यमान-
पदार्थसंमर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्शनं
संदर्शयत्येव तदीयदोषम् ॥ २६ ॥
</page>