This page has not been fully proofread.

१०६
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
ऐहिकामुष्मिकार्थेषु नित्यत्वेन निश्चयात् ।
 
नैःस्पृह्यं तुच्छबुध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥
 
नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्ति: ॥ २३ ॥
 
काकस्य विष्ठावदसह्यबुद्धि-
 
भग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहु-
 
भग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥
 
प्रदृश्यते वस्तुनि यत्र दोषो
 
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
 
अन्तर्महारोगवतीं विजान-
 
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
 
अत्रापि चान्यत्र च विद्यमान-
 
पदार्थसंमर्शनमेव कार्यम् ।
 
यथाप्रकारार्थगुणाभिमर्शनं
 
संदर्शयत्येव तदीयदोषम् ॥ २६ ॥