This page has been fully proofread once and needs a second look.

<page>
<ignore>
सर्ववेदान्तसिद्धान्तसारसंग्रहः । १०५
 
</ignore>
<verse>
आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।

इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥
 
</verse>
<verse>
शमादिषट्कसंपत्तिस्तृतीयं साध<error>नम्</error><fix>नं</fix> मतम् ।

तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसंमतम् ॥ १५ ॥
 
</verse>
<verse>
ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् ।

सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥
 
</verse>
<verse>
मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।
 

घटाद्य
नित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥
 
</verse>
<verse>
तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः ।
 

तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥
 
</verse>
<verse>
सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।

सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९॥
 
</verse>
<verse>
सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे ।
 

वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥
 
</verse>
<verse>
अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः ।
 

विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥
 
</verse>
</page>