2026-02-24 05:23:18 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः । १०५
आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।
इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥
शमादिषट्कसंपत्तिस्तृतीयं साधनम् मतम् ।
तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसंमतम् ॥ १५ ॥
ब्रह्मैव नित्यमन्यत्तु नित्यमिति वेदनम् ।
सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥
मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।
नित्यं तत्कार्य यतस्तन्नाश ईक्ष्यते ॥ १७ ॥
तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः ।
तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥
सर्गस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।
सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९॥
सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे ।
वैकुण्ठादिषु नित्यत्वमतिभ्रम एव मूढबुद्धीनाम् ॥ २० ॥
अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः ।
विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥