2026-03-06 06:14:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१०४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
</ignore>
<verse>अधिकारी च विषयः संबन्धश्च प्रयोजनम् ।
शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६॥
</verse>
<verse>चतुर्भिः साधनैः सम्यक्संपन्नो युक्तिदक्षिणः ।
मेधावी पुरुषो विद्वानधिकार्यत्र संमतः ॥ ७ ॥
</verse>
<verse>विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् ।
यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥
</verse>
<verse>एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।
संबन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९॥
</verse>
<verse>ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् ।
येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥
</verse>
<verse>प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम् ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥
</verse>
<verse>साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः ।
तस्यैवैतत्फलसिद्धिर्नान्यस्य किंचिदूनस्य ॥ १२ ॥
</verse>
<verse>चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।
मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥
</verse>
</page>