This page has not been fully proofread.

11 eft: 11
 
सर्ववेदान्तसिद्धान्त-
 
सारसंग्रहः ॥
 
अखण्डानन्दसंबोधो वन्दनाद्यस्य जायते ।
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥
 
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥
 
यदालम्बोदरं हन्ति सतां प्रत्यूहसंभवम् ।
तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥
 
वेदान्तशास्त्रसिद्धान्तसारसंग्रह उच्यते ।
प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥
 
अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् ।
 
यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥