This page has not been fully proofread.

दशश्लोकी ।
 
न जान्न मे स्वप्नको वा सुषुप्ति-
 
र्न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात्रयाणां तुरीय-
 
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥
 
अपि व्यापकत्वाद्धि तत्त्वप्रयोगा-
 
त्स्वतः सिद्धभावादनन्याश्रयत्वात् ।
 
जगत्तुच्छमेतत्समस्तं तदन्य-
 
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥
 
न चैकं तदन्यद्वितीयं कुतः स्था-
 
न वा केवलत्वं न चाकेवलत्वम् ।
 
न शून्यं न चाशून्यमद्वैतकत्वा-
 
त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द-
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
 
दशश्लोकी समाप्ता ॥
 
९९