2026-05-06 06:43:23 by ambuda-bot
This page has not been fully proofread.
२४६
उपदेशसहस्र
अवेद्यमेकं यदनन्यवेदिनां
कुतार्किकाणां च सुवेद्यमन्यथा ।
निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं
न याति मोहं ग्रहदोषमुक्तितः ॥ २६ ॥
अतोऽन्यथा न ग्रहनाश इष्यते
विमोहबुद्धेर्ग्रह एव कारणम् ।
ग्रहोऽप्यहेतुस्त्वनलस्त्वनिन्धनो
यथा प्रशान्ति परमां तथा व्रजेत् ॥ २७ ॥
विमथ्य वेदोदधितः समुद्धृतं
सुरैर्महाब्धेस्तु यथा महात्मभिः ।
तथामृतं ज्ञानमिदं हि यैः पुरा
नमो गुरुभ्यः परमीक्षितं च यैः ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव-
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
उपदेशसहस्रयां पद्यप्रबन्धः समाप्तः ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot
उपदेशसहस्र
अवेद्यमेकं यदनन्यवेदिनां
कुतार्किकाणां च सुवेद्यमन्यथा ।
निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं
न याति मोहं ग्रहदोषमुक्तितः ॥ २६ ॥
अतोऽन्यथा न ग्रहनाश इष्यते
विमोहबुद्धेर्ग्रह एव कारणम् ।
ग्रहोऽप्यहेतुस्त्वनलस्त्वनिन्धनो
यथा प्रशान्ति परमां तथा व्रजेत् ॥ २७ ॥
विमथ्य वेदोदधितः समुद्धृतं
सुरैर्महाब्धेस्तु यथा महात्मभिः ।
तथामृतं ज्ञानमिदं हि यैः पुरा
नमो गुरुभ्यः परमीक्षितं च यैः ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव-
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
उपदेशसहस्रयां पद्यप्रबन्धः समाप्तः ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot