2026-05-06 06:43:23 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
सतोऽविशेषादसतश्च सच्च्युती
तुलान्तयोर्यद्वदनिश्चयान हि ॥ २१ ॥
न चेत्स इष्टः सदसद्विपर्ययः
कथं भवः स्यात्सदसद्व्यवस्थिती ।
विभक्तमेतद्दुयमप्यवस्थितं
न जन्म तस्माच्च मनो हि कस्यचित् ॥ २२ ॥
अथाभ्युपेत्यापि भवं तवेच्छतो
प्रवीमि नार्थस्तव चेष्टितेन मे ।
न हानवृद्धी न यतः स्वतोऽसतो
भवोऽन्यतो वा यदि वास्तिता तयोः ॥ २३ ॥
धुवा ह्यनित्याच न चान्ययोगिनो
मिथश्च कार्य न च तेषु युज्यते ।
अनो न कस्यापि हि किंचिदिष्यते
स्वयं च तत्त्वं न निरुक्तिगोचरम् ॥ २४ ॥
समं तु तस्मात्सततं विभातव-
द्द्याद्विमुक्तं सदसद्विकल्पितात् ।
निरीक्ष्य युक्त्या श्रुतितस्तु युद्धिमा-
नशेषनिर्वाणमुपैति दीपवत् ॥ २५ ॥
२४५
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang
सतोऽविशेषादसतश्च सच्च्युती
तुलान्तयोर्यद्वदनिश्चयान हि ॥ २१ ॥
न चेत्स इष्टः सदसद्विपर्ययः
कथं भवः स्यात्सदसद्व्यवस्थिती ।
विभक्तमेतद्दुयमप्यवस्थितं
न जन्म तस्माच्च मनो हि कस्यचित् ॥ २२ ॥
अथाभ्युपेत्यापि भवं तवेच्छतो
प्रवीमि नार्थस्तव चेष्टितेन मे ।
न हानवृद्धी न यतः स्वतोऽसतो
भवोऽन्यतो वा यदि वास्तिता तयोः ॥ २३ ॥
धुवा ह्यनित्याच न चान्ययोगिनो
मिथश्च कार्य न च तेषु युज्यते ।
अनो न कस्यापि हि किंचिदिष्यते
स्वयं च तत्त्वं न निरुक्तिगोचरम् ॥ २४ ॥
समं तु तस्मात्सततं विभातव-
द्द्याद्विमुक्तं सदसद्विकल्पितात् ।
निरीक्ष्य युक्त्या श्रुतितस्तु युद्धिमा-
नशेषनिर्वाणमुपैति दीपवत् ॥ २५ ॥
२४५
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang